|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.139. अध्यायः 139
Mahabharata - Drona Parva - Chapter Topics
भीमकर्णयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-139-0x(4613)(50782)
ततः कर्णो महाराज भीमं विद्धा त्रिभिः शूरैः।
`पुनश्च षड्भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः'।
मुमोच शरवर्षाणि विचित्राणि बहूनि च॥ 7-139-1(50783)
वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः।
न विव्यथे भीमसेनो भिद्यमान इवाचलः॥ 7-139-2(50784)
स कर्णं कर्णिना कर्णे पीतेन निशितेन च।
विव्याध सुभृशं सङ्ख्ये तैलधौतेन मारिष॥ 7-139-3(50785)
स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्॥ 7-139-4(50786)
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे।
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः॥ 7-139-5(50787)
पुनरस्य त्वरन्भीपो नाराचान्दश भारत।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान्॥ 7-139-6(50788)
ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः॥ 7-139-7(50789)
ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा॥ 7-139-8(50790)
सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना।
रथकूबरमालम्ब्य न्यमीलयत लोचने॥ 7-139-9(50791)
स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परन्तपः।
रुधिरोक्षितसर्वाङ्गः क्रोधमाहारयत्परम्॥ 7-139-10(50792)
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना।
वेगं चक्रे महावेगो भीमसेनरथं प्रति॥ 7-139-11(50793)
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्।
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत॥ 7-139-12(50794)
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन्॥ 7-139-13(50795)
कर्णस्ततो महाराज पाण्डवं नवभिः शरैः।
आजघानोऽसि क्रुद्धः क्रुद्धरूपं परन्तप॥ 7-139-14(50796)
तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ।
`शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ'।
जिमूताविव चान्योन्यं प्रववर्षतुराहवे॥ 7-139-15(50797)
तलशब्दरवैश्चैव त्रासयेतां परस्परम्।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे॥ 7-139-16(50798)
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत॥ 7-139-17(50799)
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः॥ 7-139-18(50800)
अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम्।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः॥ 7-139-19(50801)
तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि।
सप्तमं चाष्टमं चैव नवमं दशमं तथा॥ 7-139-20(50802)
एकादशं द्वादशं च त्रयोधशमथापि च।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः॥ 7-139-21(50803)
तथा सप्तदशं वेगादष्टादशमथापि वा।
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि।
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत॥ 7-139-22(50804)
दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम्।
स वर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्॥ 7-139-23(50805)
`रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः।
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः'॥ 7-139-24(50806)
हस्त्यश्वरथदेहांश्च गतासून्प्रेक्ष्य सर्वशः।
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत॥ 7-139-25(50807)
स विष्फार्य महच्चापं कार्तस्वरविभूषितम्।
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा॥ 7-139-26(50808)
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरो चत।
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः॥ 7-139-27(50809)
मरीचिविकचस्येव राजन्भानुमतो वपुः।
आसीदाधिरथेर्घोरं वपुः शरशताचितम्॥ 7-139-28(50810)
कराभ्यामाददानस्य सन्दधानस्य चाशुगान्।
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे॥ 7-139-29(50811)
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्।
कर्णस्यासीन्महीपाल सव्यं दक्षिणमस्यतः॥ 7-139-30(50812)
स्वर्णपुङ्खाः सुनिशिताः कर्मचापच्युताः शराः।
प्राच्छादयन्महाराज दिशः सूर्य इवांशुभिः॥ 7-139-31(50813)
ततः कनकपुङ्खानां शराणां नतपर्वणाम्।
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः॥ 7-139-32(50814)
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः।
श्रेणीकृता व्यरोचन्त राजन्क्रौञ्चा इवाम्बरे॥ 7-139-33(50815)
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्।
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्॥ 7-139-34(50816)
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः।
अजस्रमपतन्बाणा भीमसेनरथं प्रति॥ 7-139-35(50817)
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः।
शलभानामिव व्राताः शराः कर्णसमीरिताः॥ 7-139-36(50818)
चापादाधिरथेर्मुक्ताः प्रपतन्तश्चकाशिरे।
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः॥ 7-139-37(50819)
पर्वतं वारिधाराभिच्छादयन्निव तोयदः।
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः॥ 7-139-38(50820)
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम्।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः॥ 7-139-39(50821)
तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम्।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्॥ 7-139-40(50822)
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशाम्पते।
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्।
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्॥ 7-139-41(50823)
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः।
गगने रचिता माला काञ्चनीव व्यरोचतं॥ 7-139-42(50824)
ततो व्योम्नि विषक्तानि शरजालानि भागशः।
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः॥ 7-139-43(50825)
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः।
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे।
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः॥ 7-139-44(50826)
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः।
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन॥ 7-139-45(50827)
स भिमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः।
उपारोहदनादृत्य तस्य वीर्यं महात्मनः॥ 7-139-46(50828)
तयोर्विसृजतोस्तत्र शरजालानि मारिष।
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्॥ 7-139-47(50829)
अन्योन्यशरसंसम्पर्शात्तयोर्मनुजसिंहयोः।
आकाशे भरतश्रेष्ठ पावकः समजायत॥ 7-139-48(50830)
तथा कर्णः शितान्बाणान्कर्मारपरिमार्जितान्।
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया॥ 7-139-49(50831)
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्।
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्॥ 7-139-50(50832)
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः।
अमर्षी बलवान्क्रुद्धौ दिधक्षन्निव पावकः॥ 7-139-51(50833)
ततश्चटचटाशब्दो गोधाघातादभूत्तयोः॥ 7-139-52(50834)
तलशब्दश्च सुभहान्सिंहनादश्च भैरवः।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः॥ 7-139-53(50835)
योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम्।
कर्णपाण्डवयो राजन्परस्परवधैषिणोः॥ 7-139-54(50836)
देवर्षिसिद्धगन्धर्वाः साधुसाध्वित्यपूजयन्।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा॥ 7-139-55(50837)
ततो भीमो महाबाहुः संरम्भी दृढविक्रमः।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम्॥ 7-139-56(50838)
कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः।
प्राहिणोन्नव नाराचानाशीविषसमान्रणे॥ 7-139-57(50839)
तावद्भिरथ तान्भीमो व्योम्नि चिच्छेद पत्रिभिः।
नाराचान्सूत पुत्रस्य तिष्ठतिष्ठेति चाब्रवीत्॥ 7-139-58(50840)
ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम्।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम्॥ 7-139-59(50841)
तमापतन्तं चिच्छेद राधेयः प्रहसन्निव।
त्रिभिः शरैः शरं राजन्पाण्डवस्य प्रतापवान्॥ 7-139-60(50842)
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः।
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्।
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया॥ 7-139-61(50843)
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः।
रश्मीन्योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे। 7-139-62(50844)
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः।
सोपसृत्य द्रुतं सूतो युधामन्यो रथं ययौ॥ 7-139-63(50845)
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः।
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत्॥ 7-139-64(50846)
स विधन्वा महाबाहुरथ शक्तिं परामृशत्।
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति॥ 7-139-65(50847)
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम्।
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः॥ 7-139-66(50848)
साऽपतद्दृशधा छिन्ना कर्णस्य निशितैः शरैः।
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः॥ 7-139-67(50849)
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्।
खङ्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा॥ 7-139-68(50850)
तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम्।
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत॥ 7-139-69(50851)
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः।
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति॥ 7-139-70(50852)
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः।
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात्॥ 7-139-71(50853)
ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम्।
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्॥ 7-139-72(50854)
व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया।
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान्॥ 7-139-73(50855)
स वध्यमानो बलवान्कर्णचापच्युतैः शरैः।
वैहायसं प्राक्रमद्धै कर्णस्य रथमाविशत्॥ 7-139-74(50856)
स तस्य चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः।
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत्॥ 7-139-75(50857)
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्।
ध्वजमस्य समारुह्य तस्मै भीमो महीतले॥ 7-139-76(50858)
तदस्य कुरवः सर्वे चाणाश्चाभ्यपूजयन्।
यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम्॥ 7-139-77(50859)
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्।
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः॥ 7-139-78(50860)
तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात्।
संरम्भात्पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम्॥ 7-139-79(50861)
तौ समेतौ महाराज स्पर्धमानौ महाबलौ।
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ॥ 7-139-80(50862)
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव॥ 7-139-81(50863)
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः।
दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान्।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह॥ 7-139-82(50864)
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च।
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत॥ 7-139-83(50865)
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम्।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः॥ 7-139-84(50866)
महौषधिसमायुक्तं हनूमानिव पर्वतम्।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः॥ 7-139-85(50867)
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः।
चक्राण्यश्चांस्तथा चान्यद्यद्यत्पश्यति भूतले॥ 7-139-86(50868)
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः।
तदस्य सर्वं चिच्छेद क्षिप्तंक्षिप्तं शितैः शरैः॥ 7-139-87(50869)
भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भं सुदारुणम्।
हन्तुमैच्छत्सूतपुत्रं संस्परन्नर्जुनं क्षणात्॥ 7-139-88(50870)
शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना॥ 7-139-89(50871)
तमेवं व्याकुलं भीमं भूयोभूयः शितैः शरैः।
मूर्च्छयाभिपरीताङ्गमकरोत्सूतनन्दनः॥ 7-139-90(50872)
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्।
धनुषोग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत्॥ 7-139-91(50873)
धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन्।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत्॥ 7-139-92(50874)
ताडितो भीमसेनेन क्रोधादारक्तलोचनः।
विहसन्निव राधेयो वाक्यमेतदुवाच ह॥ 7-139-93(50875)
पुनः पुनस्तूबरक मूढ औदरिकेति च।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर॥ 7-139-94(50876)
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन॥ 7-139-95(50877)
मूलपुष्पफलाहारो व्रतेषु नियमेषु च।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः॥ 7-139-96(50878)
क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान्॥ 7-139-97(50879)
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर॥ 7-139-98(50880)
मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः॥ 7-139-99(50881)
फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर॥ 7-139-100(50882)
`सञ्जय उवाच। 7-139-101x(4614)
एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः'॥ 7-139-101(50883)
कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम्॥ 7-139-102(50884)
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा॥ 7-139-103(50885)
योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते॥ 7-139-104(50886)
गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे।
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक॥ 7-139-105(50887)
सञ्जय उवाच। 7-139-106x(4615)
कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम्।
उवाच कर्णं प्रहसन्सर्वेषां शृण्वतां वचः॥ 7-139-106(50888)
जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथात्मना।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः॥ 7-139-107(50889)
मल्लयुद्धं मया सार्धं कुरु दुष्कुलसम्भव।
महाबलो महाभोगी कीचको निहतो यथा।
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु॥ 7-139-108(50890)
भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः।
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम्॥ 7-139-109(50891)
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत्।
प्रसुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः॥ 7-139-110(50892)
तं ब्रुवाणं तु भीमः स काङ्क्षन्भीमपराक्रमः।
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम्॥ 7-139-111(50893)
तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी॥ 7-139-112(50894)
ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः।
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम्॥ 7-139-113(50895)
सञ्जय उवाच। 7-139-114x(4616)
एवमुक्तस्तदा पार्थः केशवेन महात्मना।
भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः।
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा'॥ 7-139-114(50896)
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः।
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः॥ 7-139-115(50897)
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः।
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्॥ 7-139-116(50898)
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः।
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः॥ 7-139-117(50899)
स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः।
कर्णो भीमादपायासीद्रथेन महता द्रुतम्॥ 7-139-118(50900)
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः।
अन्वयाद्धातरं सङ्ख्ये पाण्डवं सव्यसाचिनम्॥ 7-139-119(50901)
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्चयः।
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः॥ 7-139-120(50902)
स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम्।
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः॥ 7-139-121(50903)
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा।
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः॥ 7-139-122(50904)
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः।
शिलीमुखैर्महाराज मागास्तिष्ठेति चाब्रवीत्॥ 7-139-123(50905)
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम्।
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः॥ 7-139-124(50906)
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे।
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली॥ 7-139-125(50907)
धनञ्जयस्तथाऽऽयान्तं पृष्ठतो द्रौणिमभ्यगात्।
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम्॥ 7-139-126(50908)
विदार्य देहान्नाराचैर्नरवारणवाजिनाम्।
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः॥ 7-139-127(50909)
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्।
पाकशासनिरायत्तः पार्थः स निजघान ह॥ ॥ 7-139-128(50910)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-139-46 उपारोहत्सन्निकर्षमगात्॥ 5-139-47 वायुभूतानि वातोद्भूतान्यतिवेगवन्ति वा॥ 5-139-74 वैहायसमाकाशम्॥ 5-139-75 लयमङ्गसङ्कोचम्॥ 5-139-87 तद्रथादिसाधनम्॥ 5-139-88 वज्रगर्भमन्तर्विहिताङ्गुष्ठम्॥ 5-139-89 समर्थः समीचीनार्थो धर्मापेक्षीति यावत्॥ 5-139-94 तूबरकः पुंश्चिह्नरहितः षण्ड इतियावत्। तूबरोऽश्मश्रुपुरुषे इत्युपक्रम्य पुरुषव्यञ्जनत्यक्तो इति मेदिनी। औदरिको बह्वाशी॥ 5-139-96 व्रतेषु नियमेषु आगन्तुकेषु॥ 5-139-103 संलीनं सङ्कुचिताङ्गम्॥ 5-139-110 व्यकत्थयत् भर्त्सितवान्॥ 5-139-139 एकोनचत्वारिंशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|